भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.146

1.146.01

त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निम् पित्रोर् उपस्थे ।
निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥

1.146.02

उक्षा महाँ अभि ववक्ष एने अजरस् तस्थाव् इतऊतिर् ऋष्वः ।
उर्व्याः पदो नि दधाति सानौ रिहन्त्य् ऊधो अरुषासो अस्य ॥

1.146.03

समानं वत्सम् अभि संचरन्ती विष्वग् धेनू वि चरतः सुमेके ।
अनपवृज्याँ अध्वनो मिमाने विश्वान् केताँ अधि महो दधाने ॥

1.146.04

धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
सिषासन्तः पर्य् अपश्यन्त सिन्धुम् आविर् एभ्यो अभवत् सूर्यो नॄन् ॥

1.146.05

दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
पुरुत्रा यद् अभवत् सूर् अहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc