भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.145

1.145.01

तम् पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्व् ईयते ।
तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य शवसः शुष्मिणस् पतिः ॥

1.145.02

तम् इत् पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यद् अग्रभीत् ।
न मृष्यते प्रथमं नापरं वचो ऽस्य क्रत्वा सचते अप्रदृपितः ॥

1.145.03

तम् इद् गच्छन्ति जुह्व1स् तम् अर्वतीर् विश्वान्य् एकः शृणवद् वचांसि मे ।
पुरुप्रैषस् ततुरिर् यज्ञसाधनो ऽच्छिद्रोतिः शिशुर् आदत्त सं रभः ॥

1.145.04

उपस्थायं चरति यत् समारत सद्यो जातस् तत्सार युज्येभिः ।
अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईं गच्छन्त्य् उशतीर् अपिष्ठितम् ॥

1.145.05

स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्यां नि धायि ।
व्य् अब्रवीद् वयुना मर्त्येभ्यो ऽग्निर् विद्वाँ ऋतचिद् धि सत्यः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc