ऋग्वेद · अध्याय 1.147
कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः ।
उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः ॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तन्वं वन्दे अग्ने ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् ।
ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥
यो नो अग्ने अररिवाँ अघायुर् अरातीवा मर्चयति द्वयेन ।
मन्त्रो गुरुः पुनर् अस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥
उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् मर्चयति द्वयेन ।
अतः पाहि स्तवमान स्तुवन्तम् अग्ने माकिर् नो दुरिताय धायीः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0