भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.144

1.144.01

एति प्र होता व्रतम् अस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥

1.144.02

अभीम् ऋतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
अपाम् उपस्थे विभृतो यद् आवसद् अध स्वधा अधयद् याभिर् ईयते ॥

1.144.03

युयूषतः सवयसा तद् इद् वपुः समानम् अर्थं वितरित्रता मिथः ।
आद् ईम् भगो न हव्यः सम् अस्मद् आ वोळ्हुर् न रश्मीन् सम् अयंस्त सारथिः ॥

1.144.04

यम् ईं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
दिवा न नक्तम् पलितो युवाजनि पुरू चरन्न् अजरो मानुषा युगा ॥

1.144.05

तम् ईं हिन्वन्ति धीतयो दश व्रिशो देवम् मर्तास ऊतये हवामहे ।
धनोर् अधि प्रवत आ स ऋण्वत्य् अभिव्रजद्भिर् वयुना नवाधित ॥

1.144.06

त्वं ह्य् अग्ने दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इव त्मना ।
एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिर् आशाते ॥

1.144.07

अग्ने जुषस्व प्रति हर्य तद् वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
यो विश्वतः प्रत्यङ्ङ् असि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc