भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.141

1.141.01

बळ् इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः ॥

1.141.02

पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् आ सप्तशिवासु मातृषु ।
तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥

1.141.03

निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति ॥

1.141.04

प्र यत् पितुः परमान् नीयते पर्य् आ पृक्षुधो वीरुधो दंसु रोहति ।
उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः ॥

1.141.05

आद् इन् मातॄर् आविशद् यास्व् आ शुचिर् अहिंस्यमान उर्विया वि वावृधे ।
अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु धावते ॥

1.141.06

आद् इद् धोतारं वृणते दिविष्टिषु भगम् इव पपृचानास ऋञ्जते ।
देवान् यत् क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥

1.141.07

वि यद् अस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
तस्य पत्मन् दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥

1.141.08

रथो न यातः शिक्वभिः कृतो द्याम् अङ्गेभिर् अरुषेभिर् ईयते ।
आद् अस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथाद् ईषते वयः ॥

1.141.09

त्वया ह्य् अग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
यत् सीम् अनु क्रतुना विश्वथा विभुर् अरान् न नेमिः परिभूर् अजायथाः ॥

1.141.10

त्वम् अग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिम् इन्वसि ।
तं त्वा नु नव्यं सहसो युवन् वयम् भगं न कारे महिरत्न धीमहि ॥

1.141.11

अस्मे रयिं न स्वर्थं दमूनसम् भगं दक्षं न पपृचासि धर्णसिम् ।
रश्मीँर् इव यो यमति जन्मनी उभे देवानां शंसम् ऋत आ च सुक्रतुः ॥

1.141.12

उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच् चन्द्ररथः ।
स नो नेषन् नेषतमैर् अमूरो ऽग्निर् वामं सुवितं वस्यो अच्छ ॥

1.141.13

अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं च मिहं न सूरो अति निष् टतन्युः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc