भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.142

1.142.01

समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे ।
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥

1.142.02

घृतवन्तम् उप मासि मधुमन्तं तनूनपात् ।
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥

1.142.03

शुचिः पावको अद्भुतो मध्वा यज्ञम् मिमिक्षति ।
नराशंसस् त्रिर् आ दिवो देवो देवेषु यज्ञियः ॥

1.142.04

ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् ।
इयं हि त्वा मतिर् ममाच्छा सुजिह्व वच्यते ॥

1.142.05

स्तृणानासो यतस्रुचो बर्हिर् यज्ञे स्वध्वरे ।
वृञ्जे देवव्यचस्तमम् इन्द्राय शर्म सप्रथः ॥

1.142.06

वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः ।
पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः ॥

1.142.07

आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत् ॥

1.142.08

मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
यज्ञं नो यक्षताम् इमं सिध्रम् अद्य दिविस्पृशम् ॥

1.142.09

शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती ।
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥

1.142.10

तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना ।
त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥

1.142.11

अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते ।
अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः ॥

1.142.12

पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन ॥

1.142.13

स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये ।
इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc