ऋग्वेद · अध्याय 1.140
वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम् अग्नये ।
वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥
अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे जग्धम् ई पुनः ।
अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अ1न्येन वनिनो मृष्ट वारणः ॥
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
प्राचाजिह्वं ध्वसयन्तं तृषुच्युतम् आ साच्यं कुपयं वर्धनम् पितुः ॥
मुमुक्ष्वो3 मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥
आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि वर्पः करिक्रतः ।
यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन् स्तनयन्न् एति नानदत् ॥
भूषन् न यो ऽधि बभ्रूषु नम्नते वृषेव पत्नीर् अभ्य् एति रोरुवत् ।
ओजायमानस् तन्वश् च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥
स संस्तिरो विष्टिरः सं गृभायति जानन्न् एव जानतीर् नित्य आ शये ।
पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः कृण्वते सचा ॥
तम् अग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास् तस्थुर् मम्रुषीः प्रायवे पुनः ।
तासां जराम् प्रमुञ्चन्न् एति नानदद् असुम् परं जनयञ् जीवम् अस्तृतम् ॥
अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति वि ज्रयः ।
वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर् अह ॥
अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो दमूनाः ।
अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः ॥
इदम् अग्ने सुधितं दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः प्रेयो अस्तु ते ।
यत् ते शुक्रं तन्वो3 रोचते शुचि तेनास्मभ्यं वनसे रत्नम् आ त्वम् ॥
रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीं रास्य् अग्ने ।
अस्माकं वीराँ उत नो मघोनो जनाँश् च या पारयाच् छर्म या च ॥
अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः ।
गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0