भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.133

1.133.01

उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः ।
अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृळ्हा अशेरन् ॥

1.133.02

अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् ।
छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥

1.133.03

अवासाम् मघवञ् जहि शर्धो यातुमतीनाम् ।
वैलस्थानके अर्मके महावैलस्थे अर्मके ॥

1.133.04

यासां तिस्रः पञ्चाशतो ऽभिव्लङ्गैर् अपावपः ।
तत् सु ते मनायति तकत् सु ते मनायति ॥

1.133.05

पिशङ्गभृष्टिम् अम्भृणम् पिशाचिम् इन्द्र सम् मृण ।
सर्वं रक्षो नि बर्हय ॥

1.133.06

अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान् न भीषाँ अद्रिवः ।
शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे ।
अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः ॥

1.133.07

वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः ।
सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः ।
सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc