भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.132

1.132.01

त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः ।
नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते ।
अस्मिन् यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥

1.132.02

स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि ।
अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः ।
अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः ॥

1.132.03

तत् तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् ।
वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः ।
स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥

1.132.04

नू इत्था ते पूर्वथा च प्रवाच्यं यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् ।
ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम् ॥

1.132.05

सं यज् जनान् क्रतुभिः शूर ईक्षयद् धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा ।
इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः ॥

1.132.06

युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् ।
दूरे चत्ताय च्छन्त्सद् गहनं यद् इनक्षत् ।
अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc