भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.134

1.134.01

आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्व् इह पूर्वपीतये सोमस्य पूर्वपीतये ।
ऊर्ध्वा ते अनु सूनृता मनस् तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥

1.134.02

मन्दन्तु त्वा मन्दिनो वायव् इन्दवो ऽस्मत् क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
यद् ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥

1.134.03

वायुर् युङ्क्ते रोहिता वायुर् अरुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
प्र बोधया पुरंधिं जार आ ससतीम् इव ।
प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥

1.134.04

तुभ्यम् उषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥

1.134.05

तुभ्यं शुक्रासः शुचयस् तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्य् अपाम् इषन्त भुर्वणि ।
त्वां त्सारी दसमानो भगम् ईट्टे तक्ववीये ।
त्वं विश्वस्माद् भुवनात् पासि धर्मणासुर्यात् पासि धर्मणा ॥

1.134.06

त्वं नो वायव् एषाम् अपूर्व्यः सोमानाम् प्रथमः पीतिम् अर्हसि सुतानाम् पीतिम् अर्हसि ।
उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
विश्वा इत् ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc