ऋग्वेद · अध्याय 1.126
अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो भाव्यस्य ।
यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इच्छमानः ॥
शतं राज्ञो नाधमानस्य निष्काञ् छतम् अश्वान् प्रयतान् सद्य आदम् ।
शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवो ऽजरम् आ ततान ॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् कक्षीवाँ अभिपित्वे अह्नाम् ॥
चत्वारिंशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त पज्राः ॥
पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् युक्ताँ अष्टाव् अरिधायसो गाः ।
सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥
आगधिता परिगधिता या कशीकेव जङ्गहे ।
ददाति मह्यं यादुरी याशूनाम् भोज्या शता ॥
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0