ऋग्वेद · अध्याय 1.125
प्राता रत्नम् प्रातरित्वा दधाति तं चिकित्वान् प्रतिगृह्या नि धत्ते ।
तेन प्रजां वर्धयमान आयू रायस् पोषेण सचते सुवीरः ॥
सुगुर् असत् सुहिरण्यः स्वश्वो बृहद् अस्मै वय इन्द्रो दधाति ।
यस् त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिम् उत्सिनाति ॥
आयम् अद्य सुकृतम् प्रातर् इच्छन्न् इष्टेः पुत्रं वसुमता रथेन ।
अंशोः सुतम् पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।
तस्मा आपो घृतम् अर्षन्ति सिन्धवस् तस्मा इयं दक्षिणा पिन्वते सदा ॥
दक्षिणावताम् इद् इमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।
दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥
मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः सुव्रतासः ।
अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सं यन्तु शोकाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0