भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.127

1.127.01

अग्निं होतारम् मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥

1.127.02

यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठम् अङ्गिरसां विप्र मन्मभिर् विप्रेभिः शुक्र मन्मभिः ।
परिज्मानम् इव द्यां होतारं चर्षणीनाम् ।
शोचिष्केशं वृषणं यम् इमा विशः प्रावन्तु जूतये विशः ॥

1.127.03

स हि पुरू चिद् ओजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर् न द्रुहंतरः ।
वीळु चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् ।
निःषहमाणो यमते नायते धन्वासहा नायते ॥

1.127.04

दृळ्हा चिद् अस्मा अनु दुर् यथा विदे तेजिष्ठाभिर् अरणिभिर् दाष्ट्य् अवसे ऽग्नये दाष्ट्य् अवसे ।
प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा ।
स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा ॥

1.127.05

तम् अस्य पृक्षम् उपरासु धीमहि नक्तं यः सुदर्शतरो दिवातराद् अप्रायुषे दिवातरात् ।
आद् अस्यायुर् ग्रभणवद् वीळु शर्म न सूनवे ।
भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥

1.127.06

स हि शर्धो न मारुतं तुविष्वणिर् अप्नस्वतीषूर्वरास्व् इष्टनिर् आर्तनास्व् इष्टनिः ।
आदद् धव्यान्य् आददिर् यज्ञस्य केतुर् अर्हणा ।
अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥

1.127.07

द्विता यद् ईं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः ।
अग्निर् ईशे वसूनां शुचिर् यो धर्णिर् एषाम् ।
प्रियाँ अपिधीँर् वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥

1.127.08

विश्वासां त्वा विशाम् पतिं हवामहे सर्वासां समानं दम्पतिम् भुजे सत्यगिर्वाहसम् भुजे ।
अतिथिम् मानुषाणाम् पितुर् न यस्यासया ।
अमी च विश्वे अमृतास आ वयो हव्या देवेष्व् आ वयः ॥

1.127.09

त्वम् अग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर् न देवतातये ।
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर ॥

1.127.10

प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्व् अग्नये ।
प्रति यद् ईं हविष्मान् विश्वासु क्षासु जोगुवे ।
अग्रे रेभो न जरत ऋषूणां जूर्णिर् होत ऋषूणाम् ॥

1.127.11

स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।
महि शविष्ठ नस् कृधि संचक्षे भुजे अस्यै ।
महि स्तोतृभ्यो मघवन् सुवीर्यम् मथीर् उग्रो न शवसा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc