भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.124

1.124.01

उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् ।
देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै ॥

1.124.02

अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य् अद्यौत् ॥

1.124.03

एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना पुरस्तात् ।
ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥

1.124.04

उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि ।
अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम् ॥

1.124.05

पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम् ।
व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था ॥

1.124.06

एवेद् एषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
अरेपसा तन्वा3 शाशदाना नार्भाद् ईषते न महो विभाती ॥

1.124.07

अभ्रातेव पुंस एति प्रतीची गर्तारुग् इव सनये धनानाम् ।
जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥

1.124.08

स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव ।
व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्य् अङ्क्ते समनगा इव व्राः ॥

1.124.09

आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् ।
ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः ॥

1.124.10

प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः ससन्तु ।
रेवद् उच्छ मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते जारयन्ती ॥

1.124.11

अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् ।
वि नूनम् उच्छाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते अग्निः ॥

1.124.12

उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥

1.124.13

अस्तोढ्वं स्तोम्या ब्रह्मणा मे ऽवीवृधध्वम् उशतीर् उषासः ।
युष्माकं देवीर् अवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc