भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.122

1.122.01

प्र वः पान्तं रघुमन्यवो ऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् ।
दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः ॥

1.122.02

पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।
स्तरीर् नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥

1.122.03

ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः ॥

1.122.04

उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै ।
प्र वो नपातम् अपां कृणुध्वम् प्र मातरा रास्पिनस्यायोः ॥

1.122.05

आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शंसम् अर्जुनस्य नंशे ।
प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिम् अग्नेः ॥

1.122.06

श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् ।
श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः ॥

1.122.07

स्तुषे सा वां वरुण मित्र रातिर् गवां शता पृक्षयामेषु पज्रे ।
श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥

1.122.08

अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।
जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यं सूरिः ॥

1.122.09

जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य् अक्ष्णयाध्रुक् ।
स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर् ऋतावा ॥

1.122.10

स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।
विसृष्टरातिर् याति बाळ्हसृत्वा विश्वासु पृत्सु सदम् इच् छूरः ॥

1.122.11

अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः ।
नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते ॥

1.122.12

एतं शर्धं धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य नंशे ।
द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥

1.122.13

मन्दामहे दशतयस्य धासेर् द्विर् यत् पञ्च बिभ्रतो यन्त्य् अन्ना ।
किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष ऋञ्जते नॄन् ॥

1.122.14

हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु देवाः ।
अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे ॥

1.122.15

चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः ।
रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc