ऋग्वेद · अध्याय 1.121
कद् इत्था नॄँः पात्रं देवयतां श्रवद् गिरो अङ्गिरसां तुरण्यन् ।
प्र यद् आनड् विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥
स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणं नरो गोः ।
अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरं गोः ॥
नक्षद् धवम् अरुणीः पूर्व्यं राट् तुरो विशाम् अङ्गिरसाम् अनु द्यून् ।
तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय द्विपादे ॥
अस्य मदे स्वर्यं दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् ।
यद् ध प्रसर्गे त्रिककुम् निवर्तद् अप द्रुहो मानुषस्य दुरो वः ॥
तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे भुरण्यू ।
शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
अध प्र जज्ञे तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न सूरः ।
इन्दुर् येभिर् आष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ् जरणाभि धाम ॥
स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना गोः ।
यद् ध प्रभासि कृत्व्याँ अनु द्यून् अनर्विशे पश्विषे तुराय ॥
अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् ।
हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम् ॥
त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम् ऋभ्वा ।
कुत्साय यत्र पुरुहूत वन्वञ् छुष्णम् अनन्तैः परियासि वधैः ॥
पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम् अस्य ।
शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद् आदः ॥
अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र कर्मन् ।
त्वं वृत्रम् आशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥
त्वम् इन्द्र नर्यो याँ अवो नॄन् तिष्ठा वातस्य सुयुजो वहिष्ठान् ।
यं ते काव्य उशना मन्दिनं दाद् वृत्रहणम् पार्यं ततक्ष वज्रम् ॥
त्वं सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र ।
प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून् ॥
त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके ।
प्र नो वाजान् रथ्यो3 अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै ॥
मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो वरन्त ।
आ नो भज मघवन् गोष्व् अर्यो मंहिष्ठास् ते सधमादः स्याम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0