भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.123

1.123.01

पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः ।
कृष्णाद् उद् अस्थाद् अर्या3 विहायाश् चिकित्सन्ती मानुषाय क्षयाय ॥

1.123.02

पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती सनुत्री ।
उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा पूर्वहूतौ ॥

1.123.03

यद् अद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥

1.123.04

गृहं-गृहम् अहना यात्य् अच्छा दिवे-दिवे अधि नामा दधाना ।
सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते वसूनाम् ॥

1.123.05

भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा जरस्व ।
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥

1.123.06

उद् ईरतां सूनृता उत् पुरंधीर् उद् अग्नयः शुशुचानासो अस्थुः ।
स्पार्हा वसूनि तमसापगूळ्हाविष् कृण्वन्त्य् उषसो विभातीः ॥

1.123.07

अपान्यद् एत्य् अभ्य् अ1न्यद् एति विषुरूपे अहनी सं चरेते ।
परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता रथेन ॥

1.123.08

सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घं सचन्ते वरुणस्य धाम ।
अनवद्यास् त्रिंशतं योजनान्य् एकैका क्रतुम् परि यन्ति सद्यः ॥

1.123.09

जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट श्वितीची ।
ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती ॥

1.123.10

कन्येव तन्वा3 शाशदानाँ एषि देवि देवम् इयक्षमाणम् ।
संस्मयमाना युवतिः पुरस्ताद् आविर् वक्षांसि कृणुषे विभाती ॥

1.123.11

सुसंकाशा मातृमृष्टेव योषाविस् तन्वं कृणुषे दृशे कम् ।
भद्रा त्वम् उषो वितरं व्य् उच्छ न तत् ते अन्या उषसो नशन्त ॥

1.123.12

अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः ॥

1.123.13

ऋतस्य रश्मिम् अनुयच्छमाना भद्रम्-भद्रं क्रतुम् अस्मासु धेहि ।
उषो नो अद्य सुहवा व्य् उच्छास्मासु रायो मघवत्सु च स्युः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc