ऋग्वेद · अध्याय 1.120
का राधद् धोत्राश्विना वां को वां जोष उभयोः ।
कथा विधात्य् अप्रचेताः ॥
विद्वांसाव् इद् दुरः पृच्छेद् अविद्वान् इत्थापरो अचेताः ।
नू चिन् नु मर्ते अक्रौ ॥
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतम् अद्य ।
प्रार्चद् दयमानो युवाकुः ॥
वि पृच्छामि पाक्या3 न देवान् वषट्कृतस्याद्भुतस्य दस्रा ।
पातं च सह्यसो युवं च रभ्यसो नः ॥
प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।
प्रैषयुर् न विद्वान् ॥
श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् ।
आक्षी शुभस् पती दन् ॥
युवं ह्य् आस्तम् महो रन् युवं वा यन् निरततंसतम् ।
ता नो वसू सुगोपा स्यातम् पातं नो वृकाद् अघायोः ॥
मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।
स्तनाभुजो अशिश्वीः ॥
दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
इषे च नो मिमीतं धेनुमत्यै ॥
अश्विनोर् असनं रथम् अनश्वं वाजिनीवतोः ।
तेनाहम् भूरि चाकन ॥
अयं समह मा तनूह्याते जनाँ अनु ।
सोमपेयं सुखो रथः ॥
अध स्वप्नस्य निर् विदे ऽभुञ्जतश् च रेवतः ।
उभा ता बस्रि नश्यतः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0