ऋग्वेद · अध्याय 1.119
आ वां रथम् पुरुमायम् मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधाम् अभि प्रयः ॥
ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम् अयन्त आ दिशः ।
स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम् अश्विनारुहत् ॥
सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम् ॥
युवम् भुज्युम् भुरमाणं विभिर् गतं स्वयुक्तिभिर् निवहन्ता पितृभ्य आ ।
यासिष्टं वर्तिर् वृषणा विजेन्य1ं दिवोदासाय महि चेति वाम् अवः ॥
युवोर् अश्विना वपुषे युवायुजं रथं वाणी येमतुर् अस्य शर्ध्यम् ।
आ वाम् पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवाम् पती ॥
युवं रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम् परितप्तम् अत्रये ।
युवं शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस् तार्य् आयुषा ॥
युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा सम् इन्वथः ।
क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते दंसना भुवत् ॥
अगच्छतं कृपमाणम् परावति पितुः स्वस्य त्यजसा निबाधितम् ।
स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न् अभिष्टयः ॥
उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति ।
युवं दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यं वदत् ॥
युवम् पेदवे पुरुवारम् अश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
शर्यैर् अभिद्युम् पृतनासु दुष्टरं चर्कृत्यम् इन्द्रम् इव चर्षणीसहम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0