भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.118

1.118.01

आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्व् अर्वाङ् ।
यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा वातरंहाः ॥

1.118.02

त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् ।
पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे ॥

1.118.03

प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः ।
किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥

1.118.04

आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः ।
ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥

1.118.05

आ वां रथं युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
परि वाम् अश्वा वपुषः पतंगा वयो वहन्त्व् अरुषा अभीके ॥

1.118.06

उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा शचीभिः ।
निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर् युवानम् ॥

1.118.07

युवम् अत्रये ऽवनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव् अधत्तम् ।
युवं कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तं सुष्टुतिं जुजुषाणा ॥

1.118.08

युवं धेनुं शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय ।
अमुञ्चतं वर्तिकाम् अंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥

1.118.09

युवं श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम् अश्वम् ।
जोहूत्रम् अर्यो अभिभूतिम् उग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥

1.118.10

ता वां नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः ।
आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥

1.118.11

आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc