भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.116

1.116.01

नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमाँ इयर्म्य् अभ्रियेव वातः ।
याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥

1.116.02

वीळुपत्मभिर् आशुहेमभिर् वा देवानां वा जूतिभिः शाशदाना ।
तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय ॥

1.116.03

तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् ममृवाँ अवाहाः ।
तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः ॥

1.116.04

तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम् ऊहथुः पतंगैः ।
समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥

1.116.05

अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे ।
यद् अश्विना ऊहथुर् भुज्युम् अस्तं शतारित्रां नावम् आतस्थिवांसम् ॥

1.116.06

यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति ।
तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः ॥

1.116.07

युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरंधिम् ।
कारोतराच् छफाद् अश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥

1.116.08

हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् ।
ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं स्वस्ति ॥

1.116.09

परावतं नासत्यानुदेथाम् उच्चाबुध्नं चक्रथुर् जिह्मबारम् ।
क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥

1.116.10

जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतं द्रापिम् इव च्यवानात् ।
प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम् ॥

1.116.11

तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या वरूथम् ।
यद् विद्वांसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय ॥

1.116.12

तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् ।
दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच ॥

1.116.13

अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरंधिः ।
श्रुतं तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम् ॥

1.116.14

आस्नो वृकस्य वर्तिकाम् अभीके युवं नरा नासत्यामुमुक्तम् ।
उतो कविम् पुरुभुजा युवं ह कृपमाणम् अकृणुतं विचक्षे ॥

1.116.15

चरित्रं हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् ।
सद्यो जङ्घाम् आयसीं विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम् ॥

1.116.16

शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं चकार ।
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव् अनर्वन् ॥

1.116.17

आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती ।
विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे ॥

1.116.18

यद् अयातं दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता ।
रेवद् उवाह सचनो रथो वां वृषभश् च शिंशुमारश् च युक्ता ॥

1.116.19

रयिं सुक्षत्रं स्वपत्यम् आयुः सुवीर्यं नासत्या वहन्ता ।
आ जह्नावीं समनसोप वाजैस् त्रिर् अह्नो भागं दधतीम् अयातम् ॥

1.116.20

परिविष्टं जाहुषं विश्वतः सीं सुगेभिर् नक्तम् ऊहथू रजोभिः ।
विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम् ॥

1.116.21

एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा ।
निर् अहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः ॥

1.116.22

शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः ।
शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम् ॥

1.116.23

अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर् विश्वकाय ॥

1.116.24

दश रात्रीर् अशिवेना नव द्यून् अवनद्धं श्नथितम् अप्स्व् अ1न्तः ।
विप्रुतं रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण ॥

1.116.25

प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः ।
उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc