भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.115

1.115.01

चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥

1.115.02

सूर्यो देवीम् उषसं रोचमानाम् मर्यो न योषाम् अभ्य् एति पश्चात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥

1.115.03

भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥

1.115.04

तत् सूर्यस्य देवत्वं तन् महित्वम् मध्या कर्तोर् विततं सं जभार ।
यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥

1.115.05

तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे ।
अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम् भरन्ति ॥

1.115.06

अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc