ऋग्वेद · अध्याय 1.117
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
बर्हिष्मती रातिर् विश्रिता गीर् इषा यातं नासत्योप वाजैः ॥
यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति ।
येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं यातम् ॥
ऋषिं नराव् अंहसः पाञ्चजन्यम् ऋबीसाद् अत्रिम् मुञ्चथो गणेन ।
मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥
अश्वं न गूळ्हम् अश्विना दुरेवैर् ऋषिं नरा वृषणा रेभम् अप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति पूर्व्या कृतानि ॥
सुषुप्वांसं न निरृतेर् उपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
शुभे रुक्मं न दर्शतं निखातम् उद् ऊपथुर् अश्विना वन्दनाय ॥
तद् वां नरा शंस्यम् पज्रियेण कक्षीवता नासत्या परिज्मन् ।
शफाद् अश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतम् मधूनाम् ॥
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर् विश्वकाय ।
घोषायै चित् पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनाव् अदत्तम् ॥
युवं श्यावाय रुशतीम् अदत्तम् महः क्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद् वृषणा कृतं वां यन् नार्षदाय श्रवो अध्यधत्तम् ॥
पुरू वर्पांस्य् अश्विना दधाना नि पेदव ऊहथुर् आशुम् अश्वम् ।
सहस्रसां वाजिनम् अप्रतीतम् अहिहनं श्रवस्य1ं तरुत्रम् ॥
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च वाजम् ॥
सूनोर् मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातम् उद् ऊपथुर् दशमे अश्विनाहन् ॥
युवं च्यवानम् अश्विना जरन्तम् पुनर् युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥
युवं तुग्राय पूर्व्येभिर् एवैः पुनर्मन्याव् अभवतं युवाना ।
युवम् भुज्युम् अर्णसो निः समुद्राद् विभिर् ऊहथुर् ऋज्रेभिर् अश्वैः ॥
अजोहवीद् अश्विना तौग्र्यो वाम् प्रोळ्हः समुद्रम् अव्यथिर् जगन्वान् ।
निष् टम् ऊहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥
अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् अमुञ्चतं वृकस्य ।
वि जयुषा ययथुः सान्व् अद्रेर् जातं विष्वाचो अहतं विषेण ॥
शतम् मेषान् वृक्ये मामहानं तमः प्रणीतम् अशिवेन पित्रा ।
आक्षी ऋज्राश्वे अश्विनाव् अधत्तं ज्योतिर् अन्धाय चक्रथुर् विचक्षे ॥
शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकं च मेषान् ॥
मही वाम् ऊतिर् अश्विना मयोभूर् उत स्रामं धिष्ण्या सं रिणीथः ।
अथा युवाम् इद् अह्वयत् पुरंधिर् आगच्छतं सीं वृषणाव् अवोभिः ॥
अधेनुं दस्रा स्तर्य1ं विषक्ताम् अपिन्वतं शयवे अश्विना गाम् ।
युवं शचीभिर् विमदाय जायां न्य् ऊहथुः पुरुमित्रस्य योषाम् ॥
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश् चक्रथुर् आर्याय ॥
आथर्वणायाश्विना दधीचे ऽश्व्यं शिरः प्रत्य् ऐरयतम् ।
स वाम् मधु प्र वोचद् ऋतायन् त्वाष्ट्रं यद् दस्राव् अपिकक्ष्यं वाम् ॥
सदा कवी सुमतिम् आ चके वां विश्वा धियो अश्विना प्रावतम् मे ।
अस्मे रयिं नासत्या बृहन्तम् अपत्यसाचं श्रुत्यं रराथाम् ॥
हिरण्यहस्तम् अश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
त्रिधा ह श्यावम् अश्विना विकस्तम् उज् जीवस ऐरयतं सुदानू ॥
एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो ऽवोचन् ।
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथम् आ वदेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0