भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.109

1.109.01

वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् ।
नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम् अतक्षम् ॥

1.109.02

अश्रवं हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् ।
अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥

1.109.03

मा च्छेद्म रश्मीँर् इति नाधमानाः पितॄणां शक्तीर् अनुयच्छमानाः ।
इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे ॥

1.109.04

युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोमम् उशती सुनोति ।
ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना पृङ्क्तम् अप्सु ॥

1.109.05

युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये ।
ताव् आसद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य ॥

1.109.06

प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥

1.109.07

आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः ।
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न आसन् ॥

1.109.08

पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतम् भरेषु ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc