भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.110

1.110.01

ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर् उचथाय शस्यते ।
अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत ऋभवः ॥

1.110.02

आभोगयम् प्र यद् इच्छन्त ऐतनापाकाः प्राञ्चो मम के चिद् आपयः ।
सौधन्वनासश् चरितस्य भूमनागच्छत सवितुर् दाशुषो गृहम् ॥

1.110.03

तत् सविता वो ऽमृतत्वम् आसुवद् अगोह्यं यच् छ्रवयन्त ऐतन ।
त्यं चिच् चमसम् असुरस्य भक्षणम् एकं सन्तम् अकृणुता चतुर्वयम् ॥

1.110.04

विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः ।
सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम् अपृच्यन्त धीतिभिः ॥

1.110.05

क्षेत्रम् इव वि ममुस् तेजनेनँ एकम् पात्रम् ऋभवो जेहमानम् ।
उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥

1.110.06

आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना ।
तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो रजः ॥

1.110.07

ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर् वसुर् ददिः ।
युष्माकं देवा अवसाहनि प्रिये3 ऽभि तिष्ठेम पृत्सुतीर् असुन्वताम् ॥

1.110.08

निश् चर्मण ऋभवो गाम् अपिंशत सं वत्सेनासृजता मातरम् पुनः ।
सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥

1.110.09

वाजेभिर् नो वाजसाताव् अविड्ढ्य् ऋभुमाँ इन्द्र चित्रम् आ दर्षि राधः ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc