भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.108

1.108.01

य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि चष्टे ।
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥

1.108.02

यावद् इदम् भुवनं विश्वम् अस्त्य् उरुव्यचा वरिमता गभीरम् ।
तावाँ अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे युवभ्याम् ॥

1.108.03

चक्राथे हि सध्र्य1ङ् नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।
ताव् इन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥

1.108.04

समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा ।
तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम् ॥

1.108.05

यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत वृष्ण्यानि ।
या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥

1.108.06

यद् अब्रवम् प्रथमं वां वृणानो3 ऽयं सोमो असुरैर् नो विहव्यः ।
तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥

1.108.07

यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा यजत्रा ।
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥

1.108.08

यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः ।
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥

1.108.09

यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम् उत स्थः ।
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥

1.108.10

यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम् उत स्थः ।
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥

1.108.11

यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु ।
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥

1.108.12

यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥

1.108.13

एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc