ऋग्वेद · अध्याय 1.105
चन्द्रमा अप्स्व् अ1न्तर् आ सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी ॥
अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् ।
तुञ्जाते वृष्ण्यम् पयः परिदाय रसं दुहे वित्तम् मे अस्य रोदसी ॥
मो षु देवा अदः स्व1र् अव पादि दिवस् परि ।
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे अस्य रोदसी ॥
यज्ञम् पृच्छाम्य् अवमं स तद् दूतो वि वोचति ।
क्व ऋतम् पूर्व्यं गतं कस् तद् बिभर्ति नूतनो वित्तम् मे अस्य रोदसी ॥
अमी ये देवाः स्थन त्रिष्व् आ रोचने दिवः ।
कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी ॥
कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् ।
कद् अर्यम्णो महस् पथाति क्रामेम दूढ्यो वित्तम् मे अस्य रोदसी ॥
अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।
तम् मा व्यन्त्य् आध्यो3 वृको न तृष्णजम् मृगं वित्तम् मे अस्य रोदसी ॥
सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः ।
मूषो न शिश्ना व्य् अदन्ति माध्यः स्तोतारं ते शतक्रतो वित्तम् मे अस्य रोदसी ॥
अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता ।
त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी ॥
अमी ये पञ्चोक्षणो मध्ये तस्थुर् महो दिवः ।
देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर् वित्तम् मे अस्य रोदसी ॥
सुपर्णा एत आसते मध्य आरोधने दिवः ।
ते सेधन्ति पथो वृकं तरन्तं यह्वतीर् अपो वित्तम् मे अस्य रोदसी ॥
नव्यं तद् उक्थ्यं हितं देवासः सुप्रवाचनम् ।
ऋतम् अर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तम् मे अस्य रोदसी ॥
अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् ।
स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी ॥
सत्तो होता मनुष्वद् आ देवाँ अच्छा विदुष्टरः ।
अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य रोदसी ॥
ब्रह्मा कृणोति वरुणो गातुविदं तम् ईमहे ।
व्य् ऊर्णोति हृदा मतिं नव्यो जायताम् ऋतं वित्तम् मे अस्य रोदसी ॥
असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।
न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य रोदसी ॥
त्रितः कूपे ऽवहितो देवान् हवत ऊतये ।
तच् छुश्राव बृहस्पतिः कृण्वन्न् अंहूरणाद् उरु वित्तम् मे अस्य रोदसी ॥
अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि ।
उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी ॥
एनाङ्गूषेण वयम् इन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0