ऋग्वेद · अध्याय 1.106
इन्द्रम् मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
नराशंसं वाजिनं वाजयन्न् इह क्षयद्वीरम् पूषणं सुम्नैर् ईमहे ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिर् अह्वद् ऊतये ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0