ऋग्वेद · अध्याय 1.104
योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा ।
विमुच्या वयो ऽवसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे ॥
ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो जगम्यात् ।
देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् ॥
अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् ।
क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे शिफायाः ॥
युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते राष्टि शूरः ।
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते ॥
प्रति यत् स्या नीथादर्शि दस्योर् ओको नाच्छा सदनं जानती गात् ।
अध स्मा नो मघवञ् चर्कृताद् इन् मा नो मघेव निष्षपी परा दाः ॥
स त्वं न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज जीवशंसे ।
मान्तराम् भुजम् आ रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥
अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥
मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः ।
आण्डा मा नो मघवञ् छक्र निर् भेन् मा नः पात्रा भेत् सहजानुषाणि ॥
अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय ।
उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0