भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.097

1.097.01

अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् ।
अप नः शोशुचद् अघम् ॥

1.097.02

सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
अप नः शोशुचद् अघम् ॥

1.097.03

प्र यद् भन्दिष्ठ एषाम् प्रास्माकासश् च सूरयः ।
अप नः शोशुचद् अघम् ॥

1.097.04

प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
अप नः शोशुचद् अघम् ॥

1.097.05

प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
अप नः शोशुचद् अघम् ॥

1.097.06

त्वं हि विश्वतोमुख विश्वतः परिभूर् असि ।
अप नः शोशुचद् अघम् ॥

1.097.07

द्विषो नो विश्वतोमुखाति नावेव पारय ।
अप नः शोशुचद् अघम् ॥

1.097.08

स नः सिन्धुम् इव नावयाति पर्षा स्वस्तये ।
अप नः शोशुचद् अघम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc