भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.098

1.098.01

वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम् अभिश्रीः ।
इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥

1.098.02

पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥

1.098.03

वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः सचन्ताम् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc