ऋग्वेद · अध्याय 1.096
स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ् अधत्त विश्वा ।
आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥
स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् ।
विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन् द्रविणोदाम् ॥
तम् ईळत प्रथमं यज्ञसाधं विश आरीर् आहुतम् ऋञ्जसानम् ।
ऊर्जः पुत्रम् भरतं सृप्रदानुं देवा अग्निं धारयन् द्रविणोदाम् ॥
स मातरिश्वा पुरुवारपुष्टिर् विदद् गातुं तनयाय स्वर्वित् ।
विशां गोपा जनिता रोदस्योर् देवा अग्निं धारयन् द्रविणोदाम् ॥
नक्तोषासा वर्णम् आमेम्याने धापयेते शिशुम् एकं समीची ।
द्यावाक्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाम् ॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर् मन्मसाधनो वेः ।
अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन् द्रविणोदाम् ॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निं धारयन् द्रविणोदाम् ॥
द्रविणोदा द्रविणसस् तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
द्रविणोदा वीरवतीम् इषं नो द्रविणोदा रासते दीर्घम् आयुः ॥
एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0