भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.095

1.095.01

द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते ।
हरिर् अन्यस्याम् भवति स्वधावाञ् छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥

1.095.02

दशेमं त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम् ।
तिग्मानीकं स्वयशसं जनेषु विरोचमानम् परि षीं नयन्ति ॥

1.095.03

त्रीणि जाना परि भूषन्त्य् अस्य समुद्र एकं दिव्य् एकम् अप्सु ।
पूर्वाम् अनु प्र दिशम् पार्थिवानाम् ऋतून् प्रशासद् वि दधाव् अनुष्ठु ॥

1.095.04

क इमं वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान् ॥

1.095.05

आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहम् प्रति जोषयेते ॥

1.095.06

उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः ।
स दक्षाणां दक्षपतिर् बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥

1.095.07

उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।
उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति ॥

1.095.08

त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिर् अद्भिः ।
कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर् बभूव ॥

1.095.09

उरु ते ज्रयः पर्य् एति बुध्नं विरोचमानम् महिषस्य धाम ।
विश्वेभिर् अग्ने स्वयशोभिर् इद्धो ऽदब्धेभिः पायुभिः पाह्य् अस्मान् ॥

1.095.10

धन्वन् स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् ।
विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु ॥

1.095.11

एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc