भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.094

1.094.01

इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा मनीषया ।
भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.02

यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् ।
स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.03

शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् ।
त्वम् आदित्याँ आ वह तान् ह्य् उ1श्मस्य् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.04

भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् ।
जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ॥

1.094.05

विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः ।
चित्रः प्रकेत उषसो महाँ अस्य् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.06

त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.07

यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तळिद् इवाति रोचसे ।
रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.08

पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्य् अस्तु दूढ्यः ।
तद् आ जानीतोत पुष्यता वचो ऽग्ने सख्ये मा रिषामा वयं तव ॥

1.094.09

वधैर् दुःशंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः ।
अथा यज्ञाय गृणते सुगं कृध्य् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.10

यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥

1.094.11

अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् ।
सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव ॥

1.094.12

अयम् मित्रस्य वरुणस्य धायसे ऽवयाताम् मरुतां हेळो अद्भुतः ।
मृळा सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा वयं तव ॥

1.094.13

देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे ।
शर्मन् स्याम तव सप्रथस्तमे ऽग्ने सख्ये मा रिषामा वयं तव ॥

1.094.14

तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ॥

1.094.15

यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वम् अदिते सर्वताता ।
यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥

1.094.16

स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc