ऋग्वेद · अध्याय 1.093
अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् ।
प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥
अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति ।
तस्मै धत्तं सुवीर्यं गवाम् पोषं स्वश्व्यम् ॥
अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् ।
स प्रजया सुवीर्यं विश्वम् आयुर् व्य् अश्नवत् ॥
अग्नीषोमा चेति तद् वीर्यं वां यद् अमुष्णीतम् अवसम् पणिं गाः ।
अवातिरतम् बृसयस्य शेषो ऽविन्दतं ज्योतिर् एकम् बहुभ्यः ॥
युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् ।
युवं सिन्धूँर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ॥
आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो अद्रेः ।
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥
अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।
सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥
यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन ।
तस्य व्रतं रक्षतम् पातम् अंहसो विशे जनाय महि शर्म यच्छतम् ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
सं देवत्रा बभूवथुः ॥
अग्नीषोमाव् अनेन वां यो वां घृतेन दाशति ।
तस्मै दीदयतम् बृहत् ॥
अग्नीषोमाव् इमानि नो युवं हव्या जुजोषतम् ।
आ यातम् उप नः सचा ॥
अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः ।
अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0