ऋग्वेद · अध्याय 1.092
एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम् अञ्जते ।
निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर् यन्ति मातरः ॥
उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा अयुक्षत ।
अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर् अशिश्रयुः ॥
अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः ।
इषं वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय सुन्वते ॥
अधि पेशांसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव बर्जहम् ।
ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्य् उ1षा आवर् तमः ॥
प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते कृष्णम् अभ्वम् ।
स्वरुं न पेशो विदथेष्व् अञ्जञ् चित्रं दिवो दुहिता भानुम् अश्रेत् ॥
अतारिष्म तमसस् पारम् अस्योषा उच्छन्ती वयुना कृणोति ।
श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥
भास्वती नेत्री सूनृतानां दिवः स्तवे दुहिता गोतमेभिः ।
प्रजावतो नृवतो अश्वबुध्यान् उषो गोअग्राँ उप मासि वाजान् ॥
उषस् तम् अश्यां यशसं सुवीरं दासप्रवर्गं रयिम् अश्वबुध्यम् ।
सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥
विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया वि भाति ।
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचम् अविदन् मनायोः ॥
पुनः-पुनर् जायमाना पुराणी समानं वर्णम् अभि शुम्भमाना ।
श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य् आयुः ॥
व्यूर्ण्वती दिवो अन्ताँ अबोध्य् अप स्वसारं सनुतर् युयोति ।
प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥
पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया व्य् अश्वैत् ।
अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर् दृशाना ॥
उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति ।
येन तोकं च तनयं च धामहे ॥
उषो अद्येह गोमत्य् अश्वावति विभावरि ।
रेवद् अस्मे व्य् उच्छ सूनृतावति ॥
युक्ष्वा हि वाजिनीवत्य् अश्वाँ अद्यारुणाँ उषः ।
अथा नो विश्वा सौभगान्य् आ वह ॥
अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् ।
अर्वाग् रथं समनसा नि यच्छतम् ॥
याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः ।
आ न ऊर्जं वहतम् अश्विना युवम् ॥
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
उषर्बुधो वहन्तु सोमपीतये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0