ऋग्वेद · अध्याय 1.072
नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या पुरूणि ।
अग्निर् भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥
अस्मे वत्सम् परि षन्तं न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः ।
श्रमयुवः पदव्यो धियंधास् तस्थुः पदे परमे चार्व् अग्नेः ॥
तिस्रो यद् अग्ने शरदस् त्वाम् इच् छुचिं घृतेन शुचयः सपर्यान् ।
नामानि चिद् दधिरे यज्ञियान्य् असूदयन्त तन्व1ः सुजाताः ॥
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः ।
विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे तस्थिवांसम् ॥
संजानाना उप सीदन्न् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् ।
रिरिक्वांसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि रक्षमाणाः ॥
त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः ।
तेभी रक्षन्ते अमृतं सजोषाः पशूञ् च स्थातॄञ् चरथं च पाहि ॥
विद्वाँ अग्ने वयुनानि क्षितीनां व्य् आनुषक् छुरुधो जीवसे धाः ।
अन्तर्विद्वाँ अध्वनो देवयानान् अतन्द्रो दूतो अभवो हविर्वाट् ॥
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् ।
विदद् गव्यं सरमा दृळ्हम् ऊर्वं येना नु कम् मानुषी भोजते विट् ॥
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः ॥
अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् ।
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0