भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.071

1.071.01

उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिं न नित्यं जनयः सनीळाः ।
स्वसारः श्यावीम् अरुषीम् अजुष्रञ् चित्रम् उच्छन्तीम् उषसं न गावः ॥

1.071.02

वीळु चिद् दृळ्हा पितरो न उक्थैर् अद्रिं रुजन्न् अङ्गिरसो रवेण ।
चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम् उस्राः ॥

1.071.03

दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो3 विभृत्राः ।
अतृष्यन्तीर् अपसो यन्त्य् अच्छा देवाञ् जन्म प्रयसा वर्धयन्तीः ॥

1.071.04

मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् ।
आद् ईं राज्ञे न सहीयसे सचा सन्न् आ दूत्य1म् भृगवाणो विवाय ॥

1.071.05

महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् ।
सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥

1.071.06

स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् ।
वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि ॥

1.071.07

अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः ।
न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥

1.071.08

आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके ।
अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ॥

1.071.09

मनो न यो ऽध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे ।
राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतं रक्षमाणा ॥

1.071.10

मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् ।
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेर् अधीहि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc