ऋग्वेद · अध्याय 1.073
रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न शासुः ।
स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥
देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥
तं त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु ध्रुवासु ।
अधि द्युम्नं नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो रयीणाम् ॥
वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः ।
सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ॥
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः ।
परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर् अद्रिम् ॥
त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
नक्ता च चक्रुर् उषसा विरूपे कृष्णं च वर्णम् अरुणं च सं धुः ॥
यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च ।
छायेव विश्वम् भुवनं सिसक्ष्य् आपप्रिवान् रोदसी अन्तरिक्षम् ॥
अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः ।
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0