भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.055

1.055.01

दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति ।
भीमस् तुविष्माञ् चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥

1.055.02

सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः ।
इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते ॥

1.055.03

त्वं तम् इन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणाम् इरज्यसि ।
प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥

1.055.04

स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् ।
वृषा छन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम् मघवा यद् इन्वति ॥

1.055.05

स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः ।
अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥

1.055.06

स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् ।
ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् ॥

1.055.07

दानाय मनः सोमपावन्न् अस्तु ते ऽर्वाञ्चा हरी वन्दनश्रुद् आ कृधि ।
यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥

1.055.08

अप्रक्षितं वसु बिभर्षि हस्तयोर् अषाळ्हं सहस् तन्वि श्रुतो दधे ।
आवृतासो ऽवतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र भूरयः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc