ऋग्वेद · अध्याय 1.054
मा नो अस्मिन् मघवन् पृत्स्व् अंहसि नहि ते अन्तः शवसः परीणशे ।
अक्रन्दयो नद्यो3 रोरुवद् वना कथा न क्षोणीर् भियसा सम् आरत ॥
अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि ।
यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥
अर्चा दिवे बृहते शूष्य1ं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः ।
बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥
त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् ।
यन् मायिनो व्रन्दिनो मन्दिना धृषच् छितां गभस्तिम् अशनिम् पृतन्यसि ॥
नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना ।
प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा परि ॥
त्वम् आविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो ।
त्वं रथम् एतशं कृत्व्ये धने त्वम् पुरो नवतिं दम्भयो नव ॥
स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः शासम् इन्वति ।
उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते दिवः ॥
असमं क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे ।
ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥
तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा इन्द्रपानाः ।
व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व ॥
अपाम् अतिष्ठद् धरुणह्वरं तमो ऽन्तर् वृत्रस्य जठरेषु पर्वतः ।
अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥
स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं जनाषाळ् इन्द्र तव्यम् ।
रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0