भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.056

1.056.01

एष प्र पूर्वीर् अव तस्य चम्रिषो ऽत्यो न योषाम् उद् अयंस्त भुर्वणिः ।
दक्षम् महे पाययते हिरण्ययं रथम् आवृत्या हरियोगम् ऋभ्वसम् ॥

1.056.02

तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः ।
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥

1.056.03

स तुर्वणिर् महाँ अरेणु पौंस्ये गिरेर् भृष्टिर् न भ्राजते तुजा शवः ।
येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि दामनि ॥

1.056.04

देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्य् उषसं न सूर्यः ।
यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद् अर्हरिष्वणिः ॥

1.056.05

वि यत् तिरो धरुणम् अच्युतं रजो ऽतिष्ठिपो दिव आतासु बर्हणा ।
स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निर् अपाम् औब्जो अर्णवम् ॥

1.056.06

त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः ।
त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc