भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.050

1.050.01

उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥

1.050.02

अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः ।
सूराय विश्वचक्षसे ॥

1.050.03

अदृश्रम् अस्य केतवो वि रश्मयो जनाँ अनु ।
भ्राजन्तो अग्नयो यथा ॥

1.050.04

तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।
विश्वम् आ भासि रोचनम् ॥

1.050.05

प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषान् ।
प्रत्यङ् विश्वं स्वर् दृशे ॥

1.050.06

येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।
त्वं वरुण पश्यसि ॥

1.050.07

वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः ।
पश्यञ् जन्मानि सूर्य ॥

1.050.08

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षण ॥

1.050.09

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
ताभिर् याति स्वयुक्तिभिः ॥

1.050.10

उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

1.050.11

उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् ।
हृद्रोगम् मम सूर्य हरिमाणं च नाशय ॥

1.050.12

शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥

1.050.13

उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह ।
द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc