ऋग्वेद · अध्याय 1.049
उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि ।
वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम् ॥
सुपेशसं सुखं रथं यम् अध्यस्था उषस् त्वम् ।
तेना सुश्रवसं जनम् प्रावाद्य दुहितर् दिवः ॥
वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि ।
उषः प्रारन्न् ऋतूँर् अनु दिवो अन्तेभ्यस् परि ॥
व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् ।
तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0