ऋग्वेद · अध्याय 1.051
अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रं गीर्भिर् मदता वस्वो अर्णवम् ।
यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठम् अभि विप्रम् अर्चत ॥
अभीम् अवन्वन् स्वभिष्टिम् ऊतयो ऽन्तरिक्षप्रां तविषीभिर् आवृतम् ।
इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥
त्वं गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् ।
ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य नर्तयन् ॥
त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु ।
वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य् आरोहयो दृशे ॥
त्वम् मायाभिर् अप मायिनो ऽधमः स्वधाभिर् ये अधि शुप्ताव् अजुह्वत ।
त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्व् आविथ ॥
त्वं कुत्सं शुष्णहत्येष्व् आविथारन्धयो ऽतिथिग्वाय शम्बरम् ।
महान्तं चिद् अर्बुदं नि क्रमीः पदा सनाद् एव दस्युहत्याय जज्ञिषे ॥
त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते ।
तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव विश्वानि वृष्ण्या ॥
वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद् अव्रतान् ।
शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन ॥
अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः ।
वृद्धस्य चिद् वर्धतो द्याम् इनक्षतः स्तवानो वम्रो वि जघान संदिहः ॥
तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः ।
आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि श्रवः ॥
मन्दिष्ट यद् उशने काव्ये सचाँ इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति ।
उग्रो ययिं निर् अपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः ॥
आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे ।
इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणं श्लोकम् आ रोहसे दिवि ॥
अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र सुन्वते ।
मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या ॥
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः ।
अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता ॥
इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि ।
अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन् स्याम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0