भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.046

1.046.01

एषो उषा अपूर्व्या व्य् उच्छति प्रिया दिवः ।
स्तुषे वाम् अश्विना बृहत् ॥

1.046.02

या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
धिया देवा वसुविदा ॥

1.046.03

वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि ।
यद् वां रथो विभिष् पतात् ॥

1.046.04

हविषा जारो अपाम् पिपर्ति पपुरिर् नरा ।
पिता कुटस्य चर्षणिः ॥

1.046.05

आदारो वाम् मतीनां नासत्या मतवचसा ।
पातं सोमस्य धृष्णुया ॥

1.046.06

या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः ।
ताम् अस्मे रासाथाम् इषम् ॥

1.046.07

आ नो नावा मतीनां यातम् पाराय गन्तवे ।
युञ्जाथाम् अश्विना रथम् ॥

1.046.08

अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः ।
धिया युयुज्र इन्दवः ॥

1.046.09

दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे ।
स्वं वव्रिं कुह धित्सथः ॥

1.046.10

अभूद् उ भा उ अंशवे हिरण्यम् प्रति सूर्यः ।
व्य् अख्यज् जिह्वयासितः ॥

1.046.11

अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया ।
अदर्शि वि स्रुतिर् दिवः ॥

1.046.12

तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति ।
मदे सोमस्य पिप्रतोः ॥

1.046.13

वावसाना विवस्वति सोमस्य पीत्या गिरा ।
मनुष्वच् छम्भू आ गतम् ॥

1.046.14

युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् ।
ऋता वनथो अक्तुभिः ॥

1.046.15

उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् ।
अविद्रियाभिर् ऊतिभिः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc