भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.047

1.047.01

अयं वाम् मधुमत्तमः सुतः सोम ऋतावृधा ।
तम् अश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥

1.047.02

त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना ।
कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषां सु शृणुतं हवम् ॥

1.047.03

अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा ।
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गच्छतम् ॥

1.047.04

त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् मिमिक्षतम् ।
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥

1.047.05

याभिः कण्वम् अभिष्टिभिः प्रावतं युवम् अश्विना ।
ताभिः ष्व् अ1स्माँ अवतं शुभस् पती पातं सोमम् ऋतावृधा ॥

1.047.06

सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना ।
रयिं समुद्राद् उत वा दिवस् पर्य् अस्मे धत्तम् पुरुस्पृहम् ॥

1.047.07

यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे ।
अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥

1.047.08

अर्वाञ्चा वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप ।
इषम् पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥

1.047.09

तेन नासत्या गतं रथेन सूर्यत्वचा ।
येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये ॥

1.047.10

उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे ।
शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर् अश्विना ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc