भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.045

1.045.01

त्वम् अग्ने वसूँर् इह रुद्राँ आदित्याँ उत ।
यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ॥

1.045.02

श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
तान् रोहिदश्व गिर्वणस् त्रयस्त्रिंशतम् आ वह ॥

1.045.03

प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् ।
अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥

1.045.04

महिकेरव ऊतये प्रियमेधा अहूषत ।
राजन्तम् अध्वराणाम् अग्निं शुक्रेण शोचिषा ॥

1.045.05

घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा ॥

1.045.06

त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोळ्हवे ॥

1.045.07

नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् ।
श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥

1.045.08

आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे ॥

1.045.09

प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
इहाद्य दैव्यं जनम् बर्हिर् आ सादया वसो ॥

1.045.10

अर्वाञ्चं दैव्यं जनम् अग्ने यक्ष्व सहूतिभिः ।
अयं सोमः सुदानवस् तम् पात तिरोअह्न्यम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc