ऋग्वेद · अध्याय 1.042
सम् पूषन्न् अध्वनस् तिर व्य् अंहो विमुचो नपात् ।
सक्ष्वा देव प्र णस् पुरः ॥
यो नः पूषन्न् अघो वृको दुःशेव आदिदेशति ।
अप स्म तम् पथो जहि ॥
अप त्यम् परिपन्थिनम् मुषीवाणं हुरश्चितम् ।
दूरम् अधि स्रुतेर् अज ॥
त्वं तस्य द्वयाविनो ऽघशंसस्य कस्य चित् ।
पदाभि तिष्ठ तपुषिम् ॥
आ तत् ते दस्र मन्तुमः पूषन्न् अवो वृणीमहे ।
येन पितॄन् अचोदयः ॥
अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
धनानि सुषणा कृधि ॥
अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
पूषन्न् इह क्रतुं विदः ॥
अभि सूयवसं नय न नवज्वारो अध्वने ।
पूषन्न् इह क्रतुं विदः ॥
शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्य् उदरम् ।
पूषन्न् इह क्रतुं विदः ॥
न पूषणम् मेथामसि सूक्तैर् अभि गृणीमसि ।
वसूनि दस्मम् ईमहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0