ऋग्वेद · अध्याय 1.041
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
नू चित् स दभ्यते जनः ॥
यम् बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
अरिष्टः सर्व एधते ॥
वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
नयन्ति दुरिता तिरः ॥
सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
नात्रावखादो अस्ति वः ॥
यं यज्ञं नयथा नर आदित्या ऋजुना पथा ।
प्र वः स धीतये नशत् ॥
स रत्नम् मर्त्यो वसु विश्वं तोकम् उत त्मना ।
अच्छा गच्छत्य् अस्तृतः ॥
कथा राधाम सखायः स्तोमम् मित्रस्यार्यम्णः ।
महि प्सरो वरुणस्य ॥
मा वो घ्नन्तम् मा शपन्तम् प्रति वोचे देवयन्तम् ।
सुम्नैर् इद् व आ विवासे ॥
चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः ।
न दुरुक्ताय स्पृहयेत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0